फतेह्-पुर्-सिक्री

फतेहपुरसीकरी
विश्वपरम्परास्थानानि

फतेहपुरसीकरीप्रवेशद्वारम्
राष्ट्रम्भारतम्भारतम्,
प्रकारःसांस्कृतिकम्
मानदण्डः
अनुबन्धाः२५५
क्षेत्रम्एषियापेसिफिक्
निर्देशाङ्कःii,iii, iv
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाःक्रि.श.१९८६  (दशमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्
नवाब इस्लम् खानस्य समाधिः
अनुप सरः मध्ये गानवेदिका
राजप्रवेशमहाद्वारम्
राज्ञ्याः प्रासादस्य प्रवेशद्वारम्
पञ्चाट्टभवनम्

फतेहपुरसीकरी इत्यस्य विजयशिखरमित्यर्थः । अक्बरचक्रवर्ती गुजरातविजयानन्तरं क्रिस्ताब्दस्य १५७०तः १५८६वर्षाभ्यन्तरे एतत् निर्मितवान् । तस्मिन् समये अक्बरस्य पुंसन्तानं नासीत् । सः अत्र आगत्य शेख् सलीं चिस्थी नामानं योगिनं दृष्टवान् । सः अक्बरमहोदयस्य पुत्राः भवन्तीति भविष्यं कथितवान् ।ततः अक्बरस्य एकः पुत्रः सञ्जातः । तस्य सलीम् इति नामकरणं कृतम् । एषः एव अग्रे जहाङ्गीरः इति प्रसिद्धः अभवत् । अक्बरचक्रवर्ती राजधानीम् अत्र आनीतवान् । इतः एव प्रशासनम् अकरोत् । सर्वधर्मसमन्वयसाधकं दीन् इलाही धर्मं प्रतिष्ठापितवान् । अस्मिन् नगरे शाही दर्वाजा , बुलन्ददर्वाजा इत्यादिविशिष्टानि शिल्पानि निर्मितानि । शाही दर्वाजा दुर्गस्य महाद्वारमस्ति । बुलान्द दर्वाजा (मसज़िद्) प्रार्थनामन्दिरद्वारम् अस्ति । अत्र सप्तद्वाराणि सन्ति । ५४ मीटर् उन्नतद्वारमेतदस्ति । एशियाखण्डे एव अत्युन्नतद्वारमस्ति (Gate of Victory) । अस्मिन् महाद्वारे शासननि सन्ति । सोपानैः उपरि गन्तव्यं भवति । शासनेषु प्रापञ्चिकविषयाः निरूपिताः सन्ति । प्रार्थनामन्दिरे शेख् चिस्थी स्मारकम् अस्ति । अत्र लक्षजनाः प्रार्थनां कर्तुं शक्नुवन्ति । फतेहपुरसीकरी स्थाने जोधाबायीराजगृहं , बीरबल् भवनं , पञ्चमहल् , दिवानि खास् , दिवानि आं, हीरन् महल् , नौबतखान् , सुन्दर महल् इत्यादीनि स्थानानि आकर्षकाणि सन्ति ।फतेहपुरसीकरी तु क्रि.श. १६तमशतके मोघलचक्रवर्ती अक्बरेण निर्मिता राजधानी । एतत् आग्रानगरस्य समीपे अस्ति । साम्प्रदयिकराजधानीत्वेन अस्य स्थानस्य उपयोगं कृतवान् अतः दुर्गादिभिः रक्षणं नास्ति । अक्बरस्य व्यक्तित्वेन आदर्शैः च प्रभावितम् एतन्नगरं विशिष्टविन्यासयुक्तम् अस्ति । अक्बरः धार्मिकसहिष्णुः धर्मसमन्वये विश्वस्तः आसीत् । अयं विविधमतधर्माणां चिन्तनयुक्तं दीन् इलाही इति मतमपि आरब्धवान् । एषः हैन्दवैः सह राजनैतिकं वैयक्तिकं च बान्धव्यं रक्षितवान् । अक्बरः अस्य नगरस्य विन्यासकर्ता । अतः तस्य आदर्शान् अस्मिन् नगरे दृष्टुं शक्नुमः। नगरस्य विन्यासक्रमे विशाले स्थले भवनानि निर्मीय वैशाल्यभावं प्रकटयितुं प्रज्ञापूर्वकं यत्नः कृतः दृश्यते । गुजरातस्य पश्चिमबङ्गालस्य च विन्यासाः अनेकेषु भवनेषु अन्तर्भाविताह् सन्ति । अस्य मुख्यकारणं तु अक्बरः कुशलान् कर्मकरान् भारतस्य विविधभागतः आनीय भवननिर्माणे योजितवान् आसीत् । हैन्दवानां महम्मदीयानां क्रैस्तानां च शैल्याः मिश्रणमपि अत्र दृश्यते । भवननिर्माणास्य मूलसामग्री रक्तशिला ।


Other Languages
العربية: فتحبور سيكري
asturianu: Fatehpur Sikri
বিষ্ণুপ্রিয়া মণিপুরী: ফতেহপুর সিক্রি
čeština: Fatehpur Sikrí
Esperanto: Fatehpur Sikri
español: Fatehpur Sikri
français: Fatehpur-Sikri
hrvatski: Fatehpur Sikri
Bahasa Indonesia: Fatehpur Sikri
italiano: Fatehpur Sikri
Basa Jawa: Fatehpur Sikri
lietuvių: Fatehpur Sikris
Baso Minangkabau: Fatehpur Sikri
Bahasa Melayu: Fatehpur Sikri
नेपाल भाषा: फतेहपुर सिक्री
Nederlands: Fatehpur Sikri
norsk nynorsk: Fatehpur Sikri
Kapampangan: Fatehpur Sikri
português: Fatehpur Sikri
srpskohrvatski / српскохрватски: Fatehpur Sikri
Simple English: Fatehpur Sikri
slovenčina: Fatéhpur Síkrí
српски / srpski: Фатехпур Сикри
Türkçe: Fetihpur Sikri
українська: Фатехпур-Сікрі
Tiếng Việt: Fatehpur Sikri
Bân-lâm-gú: Fatehpur Sikri