कल्पना चावला

कल्पना चावला
Kalpana Chawla, official portrait.jpg
NASA Astronaut
जन्म 17 March 1962
Karnal, Haryana, India
मरणम् १ २००३(२००३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम �-०१) (आयुः ४०)
Aboard Space Shuttle Columbia over Texas, U.S.
पूर्ववृत्तिः Research Scientist
समयावधिः 31 days, 14 hours, 54 minutes
चयनम् 1994 NASA Group
अभियानानि STS-87, STS-107
अभियानचिह्नम् Sts-87-patch.svg STS-107 Flight Insignia.svg
प्रशस्तयः Congressional Space Medal of Honor

कल्पना चावला( हिन्दी: कल्पना चावला, आङ्ग्ल: kalpana chavala )  इत्यस्याः भारतीयायाः प्रथमायाः अवकाशयात्रिमहिलायाः जीवनं अन्याभिः महिलाभिः स्वल्पम् अपि भिन्नं नासीत् । किन्तु सा बहुसङ्घर्षम् अकरोत् । अनेकान् अवरोधान् अवतीर्य स्वविकासम् अकरोत्, देशस्य कीर्तिं च प्रासारयत् । कल्पनायाः पठनकाले तस्याः पितरौ प्राचीनविचारयुतौ आस्ताम् । अतः तां गृहस्य निकटतमायां शालायां प्रैषयताम् । शाला कीदृशी अपि स्यात् पठितुम् इच्छुकस्य विद्यार्थिनः महत्त्वं भवति इति कल्पना अमन्यत । यः कोऽपि पठितुम् इच्छति वा किमपि कर्तुम् इच्छति तस्मै अवरोधाः बाधकाः न भवन्ति इति अपि कल्पना अमन्यत । पठनकाले इयं अवकाशयात्रां करिष्यति इति केनापि विचारितं नासीत् । करनाल-नामके लघुग्रामे जाता कल्पना अवकाशयाने उपविश्य अवकाशयात्रां कृतवती इति सामान्या सिद्धिः तु नास्ति । दौर्भाग्येन अन्तिमयात्रायां प्रत्यागमनकाले कोलम्बिया-यानं नष्टं, तत्र सा मृता ।

जन्म परिवारश्च

१९६१ तमस्य वर्षेस्य जुलाई-मासस्य प्रथमे (१) दिनाङ्के हरियाणाराज्यस्य करनाल-ग्रामे तस्याः जन्म अभवत् । तस्याः पितुः नाम बनारसीलाल चावला, मातुः नाम सजोगता खरबन्दा इति च आसीत् । बनारसीलाल इत्यस्य चतस्रः सन्ततिः आसन् । कल्पना, सुनीता, दिया इति तिस्रः पुत्र्यः आसन् । सञ्जयः इति एकः पुत्रः आसीत् । चावला-परिवारः सुखी, सम्पन्नः च आसीत् । पिता बनारसीलाल इत्यस्य चक्राणाम् (टायर्) उत्पादनस्य उद्योगः आसीत् । सः तस्मात् बहुधनम् अर्जति स्म । १९४७ तमे वर्षे भारतस्य विभाजनम् अभवत् । तदनन्तरम् अपि चावला-परिवारः भारतस्य करनाल-ग्रामे निवासम् अकरोत् । बनारसीलाल हिन्दु-मुस्लिम्-जनानां अतिकठोरैः साम्प्रदायिकहिंसादिभिः प्रसङ्गैः अनुभवं प्राप्तवान् । अतः अन्यासां समस्यानां मार्गस्य अन्वेषणं तस्य कृते सरलम् आसीत् ।

Other Languages
беларуская: Калпана Чаўла
български: Калпана Чаула
español: Kalpana Chawla
français: Kalpana Chawla
ગુજરાતી: કલ્પના ચાવલા
Bahasa Indonesia: Kalpana Chawla
italiano: Kalpana Chawla
ភាសាខ្មែរ: Kalpana Chawla
한국어: 칼파나 촐라
Malagasy: Kalpana Chawla
മലയാളം: കൽപന ചൗള
Nederlands: Kalpana Chawla
پنجابی: کلپنا چاولہ
português: Kalpana Chawla
română: Kalpana Chawla
Simple English: Kalpana Chawla
slovenčina: Kalpana Chawlová
Türkçe: Kalpana Chawla
українська: Калпана Чавла